Sanskrit Stories -Store Of Wisdom


कथा - ईश्वरे विश्वासः भवेत् l

एकः राजा आसीत् l सः अत्यन्तं दयालुः आसीत् l
एकदा राजा पूजार्थं भगवतः शिवस्य मन्दिरं गतवान् l

मन्दिरे तेन द्वौ भिक्षुकौ दृष्टौ l तौ भिक्षुकौ प्रतिदिनं मन्दिरे एव तिष्ठतः स्म l
एकः भिक्षुकः मन्दिरस्य दक्षिणतः उपविशति अपरश्च मन्दिरस्य वामतः उपविशति स्म l

यदा राजा भगवतः शिवस्य पूजां आरब्धवान् तदा तौ भिक्षुकौ अपि भगवतः प्रार्थनां आरब्धवन्तौ l
एकः वदति हे भगवन्! भवान् राज्ञे बहूनि दत्तवान् मह्यम् अपि ददातु इति l
अपरः राजानं वदति हे राजन्! भगवान् भवते बहूनि दत्तवान् अतः किञ्चित् मह्यमपि ददातु इति l

भिक्षुकयोः एकः भगवतः याचते अपरः च राज्ञः याचते स्म l  राजा किमपि अनुक्त्वा गृहं गतवान् l
गृहं गत्वा राजा एकस्मिन् घटे क्षीरं पूरयित्वा तस्मिन् स्वर्णमुद्रां स्थापितवान् l
तदनन्तरं मन्त्रिणम् आहूय मन्त्रिणे क्षीरेण पूर्णं घटं दत्त्वा उक्तवान् हे मन्त्रिन्! भवान् एतं घटं नीत्वा मन्दिरं गच्छतु , तत्र यः भिक्षुकः मन्दिरस्य वामतः उपविशति तस्मै दत्त्वा आगच्छतु इति l

मन्त्री तदा मन्दिरं गत्वा दृष्टवान् तत्र भिक्षुकद्वयम् अस्ति l यः मन्दिरस्य वामतः आसीत् तस्मै क्षीरेण पूर्णं घटं दत्तवान् l
सः भिक्षुकः राज्ञः क्षीरं प्राप्य आनन्देन पातुम् आरब्धवान् l यदा तस्य उदरं पूर्णम् अभवत् तदा अपराय भिक्षुकाय दत्तवान् उक्तवान् च- भगवान् न ददाति राजा एव ददाति l
अहं राज्ञः याचितवान् आसम् अतः मह्यं दत्तवान्,
नयतु किञ्चित् क्षीरम् अस्ति तत् पिबतु इति l

सः अपि भिक्षुकः घटं स्वीकृत्य अवशिष्टं यत् क्षीरम् आसीत् तत् सर्वं पीतवान् l घटस्य अधः स्वर्णमुद्राम् आसीत् तदपि सः दृष्टवान् मौनेन च उत्थाय स्वगृहं गतवान् l

अनन्तरे दिने पुनः राजा मन्दिरं गत्वा दृष्टवान् तत्र एकः एव भिक्षुकः उपविशन् आसीत् l राजा तं पृष्टवान्- अपरः भिक्षुकः कुत्र इदानीम् ?

भिक्षुकः उक्तवान् राजन्! सः अद्य न आगतवान् l सः तु मूर्खः एव यत् सः भगवतः किमपि याचते स्म यतोहि भगवान् कथं दास्यति इति l अहं क्षीरं पीत्वा अवशिष्टं क्षीरं यद् आसीत् तत् तस्मै दत्तवान् आसम् इति l

तस्य वचनं श्रुत्वा राजा मृदुः हसित्वा उक्तवान्- आम् सत्यम्, तस्मै भिक्षुकाय तु भगवान् एव दत्तवान् इति !!

*****
धन्यवादाः 🙏
नमो नमः 🙏
21.06.2023.
बुधवासरः 

कथा --
यथा भावः तथा फलम्

कस्मिंश्चित् परिवारे द्वौ भ्रातरौ आस्ताम् l तयोः गृहे प्रतिदिनम् उच्चैः कलहः भवति स्म l तयोः पिता प्रतिदिनं मद्यपानं कृत्वा गृहम् आगत्य सर्वान् ताडयति स्म l

कालः गतः, द्वौ अपि ज्येष्ठौ जातौ l तयोः अन्यतमः सम्यक् अध्ययनं कृत्वा उच्चां पदवीं प्राप्तवान् l
अपरस्तु अध्ययने अनासक्तः सन् अनुचितानि कार्याणि कुर्वन् चौरकार्यम् आरब्धवान् l

कदाचित् सः चौरसमये बद्धः सन् कारागारं प्रविष्टवान् l कुटुम्बपरिसरः व्यक्तिजीवने कथं प्रभावं जनयति इति एकः पत्रकारः अधीते स्म l सः पत्रकारः एतयोः भ्रात्रोः विषये वार्तां श्रुतवान् आसीत् l

प्रथमं सः पत्रकारः कारागारं गतवान् तं पृष्टवान् च भोः! भवान् किमर्थं न अधीतवान् l
किमर्थं भवान् चौरकार्यम् आरब्धवान् इति l तदा सः तरूणः उक्तवान् l अस्माकं परिवारे सर्वदा कलहः आसीत् अशान्तिः च आसीत् l एतेन कारणेन अहम् अध्ययनं न कृतवान् l अध्ययने मम आसक्तिः न आसीत् l अतः अहम् अनुचितानि कार्याणि कुर्वन् चौरसमये बद्धः अस्मि इति l

एतच्छ्रुत्वा पत्रकारः तस्य भ्रातुः समीपं गतवान् l तमपि पृष्टवान् भोः! भवतः सफलतायाः रहस्यं किम् इति l

सः उक्तवान्- मम सफलतायाः रहस्यं तु मम पिता एव l सर्वदा मम गृहे उच्चैः कलहः भवति स्म l
मम पिता प्रतिदिनं मद्यपानं कृत्वा गृहम् आगत्य मम मातरं च सर्वान् ताडयति स्मl

अतः अहं चिन्तितवान् यत् मया स्वीये जीवने एवं न भवितव्यम् l अतः अहं सर्वाः बाधाः अविगणय्य अध्ययने निरतः आसम् l
अतः अहम् इदानीम् उच्चां पदवीं प्राप्तवान् अस्मि इति l

तयोः वचनं श्रुत्वा पत्रकारः अचिन्तयत् यत् यथा भावः तथा फलम् इति l

( लेखकः - प्रदीपकुमारनाथः)

*****
धन्यवादाः 🙏
नमः सर्वेभ्यः 🙏
19.06.2023.
सोमवासरः

सुभाषितम् --

यथा यथा हि पुरुषः
कल्याणे कुरुते मनः l
तथा तथाऽस्य सर्वार्थाः
सिध्यन्ते नात्र संशयः ll

(विदुरनीतिः )

पदविभागः --

यथा, यथा, हि, पुरुषः, कल्याणे, कुरुते , मनः , 
तथा,तथा,अस्य , सर्वार्थाः, सिध्यन्ते ,न,अत्र, संशयः l

अन्वयः --

यथा यथा पुरुषः कल्याणे मनः कुरुते तथा तथा अस्य सर्वार्थाः सिध्यन्ते हि l अत्र न संशयः (अस्ति ) l

अर्थात् --

यथा एकः मनुष्यः जीवने स्वस्य श्रद्धां कल्याणविषयेषु ददाति ,यथा सः धर्माचरणविषयेषु
संलग्नः भवति , तथा तस्य मनुष्यस्य सर्वाः इच्छाः निःसंशयेन सफलीभवन्ति l

The more a person engages in positive thoughts/actions, the more certain he is to succeed in all his endeavours, with out any doubt.

धन्यवादाः 🙏

No comments:

Post a Comment

thank you

प्रेरणादायक कहानियाँ

रंग  एक समय की बात है, चित्रकार राघव जीवन से पूरी तरह निराश हो चुका था। उसे लगता था कि उसकी दुनिया बेरंग हो चुकी है। असफलता के तनाव में उसने...